Sukta 1.126
चत्वारिंशद्दशरथस्य शोणाः सहस्रस्याग्रे श्रेणिं नयन्ति । मदच्युतः कृशनावतो अत्यान्कक्षीवन्त उदमृक्षन्त पज्राः ॥
च॒त्वा॒रिं॒शद्दश॑रथस्य॒ शोणा॑: स॒हस्र॒स्याग्रे॒ श्रेणिं॑ नयन्ति । म॒द॒च्युत॑: कृश॒नाव॑तो॒ अत्या॑न्क॒क्षीव॑न्त॒ उद॑मृक्षन्त प॒ज्राः ॥
catvāriṃśád daśa-rathasya śóṇāḥ sahásrasyā́gre śréṇiṃ nayanti | mada-cyútaḥ kṛśanā́vato átyān kakṣī́vanta údamṛkṣanta pajrā́ḥ ||
Forty red ones of Daśaratha lead the foremost ranks of the thousand. Intoxication-pouring, swift-running steeds—these the Pajras, with Kakṣīvān, brushed upward into shining readiness.
च॒त्वा॒रिं॒शत् । दश॑ऽरथस्य । शोणाः॑ । स॒हस्र॑स्य । अग्रे॑ । श्रेणि॑म् । न॒य॒न्ति॒ । म॒द॒ऽच्युतः॑ । कृ॒श॒नऽव॑तः । अत्या॑न् । क॒क्षीव॑न्तः । उत् । अ॒मृ॒क्ष॒न्त॒ । प॒ज्राः ॥चत्वारिंशत् । दशरथस्य । शोणाः । सहस्रस्य । अग्रे । श्रेणिम् । नयन्ति । मदच्युतः । कृशनवतः । अत्यान् । कक्षीवन्तः । उत् । अमृक्षन्त । पज्राः ॥catvāriṃśat | daśa-rathasya | śoṇāḥ | sahasrasya | agre | śreṇim | nayanti | mada-cyutaḥ | kṛśana-vataḥ | atyān | kakṣīvantaḥ | ut | amṛkṣanta | pajrāḥ