Sukta 1.126
उप मा श्यावाः स्वनयेन दत्ता वधूमन्तो दश रथासो अस्थुः । षष्टिः सहस्रमनु गव्यमागात्सनत्कक्षीवाँ अभिपित्वे अह्नाम् ॥
उप॑ मा श्या॒वाः स्व॒नये॑न द॒त्ता व॒धूम॑न्तो॒ दश॒ रथा॑सो अस्थुः । ष॒ष्टिः स॒हस्र॒मनु॒ गव्य॒मागा॒त्सन॑त्क॒क्षीवाँ॑ अभिपि॒त्वे अह्ना॑म् ॥
úpa mā śyāvā́ḥ svanáyena dattā́ vadhū́manto dáśa ráthāso asthuḥ | ṣaṣṭíḥ sahásram ánu gavyám ā́gāt sánat kakṣī́vān abhipitvé áhnām ||
Near to me came the dark-brown gifts, given with their own sounding; ten chariots stood, rich with bride-like fullness. Sixty thousand followed as radiant ‘cattle’—and Kakṣīvān won enduringly the companionship of the days (the stable rhythm of time).
उप॑ । मा॒ । श्या॒वाः । स्व॒नये॑न । द॒त्ताः । व॒धूऽम॑न्तः । दश॑ । रथा॑सः । अ॒स्थुः॒ । ष॒ष्टिः । स॒हस्र॑म् । अनु॑ । गव्य॑म् । आ । अ॒गा॒त् । सन॑त् । क॒क्षीवा॑न् । अ॒भि॒ऽपि॒त्वे । अह्ना॑म् ॥उप । मा । श्यावाः । स्वनयेन । दत्ताः । वधूमन्तः । दश । रथासः । अस्थुः । षष्टिः । सहस्रम् । अनु । गव्यम् । आ । अगात् । सनत् । कक्षीवान् । अभिपित्वे । अह्नाम् ॥upa | mā | śyāvāḥ | svanayena | dattāḥ | vadhū-mantaḥ | daśa | rathāsaḥ | asthuḥ | ṣaṣṭiḥ | sahasram | anu | gavyam | ā | agāt | sanat | kakṣīvān | abhi-pitve | ahnām