Sukta 1.126
शतं राज्ञो नाधमानस्य निष्काञ्छतमश्वान्प्रयतान्त्सद्य आदम् । शतं कक्षीवाँ असुरस्य गोनां दिवि श्रवोऽजरमा ततान ॥
श॒तं राज्ञो॒ नाध॑मानस्य नि॒ष्काञ्छ॒तमश्वा॒न्प्रय॑तान्त्स॒द्य आद॑म् । श॒तं क॒क्षीवाँ॒ असु॑रस्य॒ गोनां॑ दि॒वि श्रवो॒ऽजर॒मा त॑तान ॥
śatáṃ rājño nā́dhamānasya niṣkāñ śatám aśvān práyatān sadyá ā́dam | śatáṃ kakṣī́vān ásurasya gónāṃ diví śrávo 'járam ā́ tatāna ||
A hundred gold-ornaments from King Nādhamāna, a hundred well-yoked horses he gave at once. Kakṣīvān spread abroad in heaven an undecaying śravas—through the Asura’s (lordly) herds of light.
श॒तम् । राज्ञः॑ । नाध॑मानस्य । नि॒ष्कान् । श॒तम् । अश्वा॑न् । प्रऽय॑तान् । स॒द्यः । आद॑म् । श॒तम् । क॒क्षीवा॑न् । असु॑रस्य । गोना॑म् । दि॒वि । श्रवः॑ । अ॒जर॑म् । आ । त॒ता॒न॒ ॥शतम् । राज्ञः । नाधमानस्य । निष्कान् । शतम् । अश्वान् । प्रयतान् । सद्यः । आदम् । शतम् । कक्षीवान् । असुरस्य । गोनाम् । दिवि । श्रवः । अजरम् । आ । ततान ॥śatam | rājñaḥ | nādhamānasya | niṣkān | śatam | aśvān | pra-yatān | sadyaḥ | ādam | śatam | kakṣīvān | asurasya | gonām | divi | śravaḥ | ajaram | ā | tatāna