Sukta 1.125
आयमद्य सुकृतं प्रातरिच्छन्निष्टेः पुत्रं वसुमता रथेन । अंशोः सुतं पायय मत्सरस्य क्षयद्वीरं वर्धय सूनृताभिः ॥
आय॑म॒द्य सु॒कृतं॑ प्रा॒तरि॒च्छन्नि॒ष्टेः पु॒त्रं वसु॑मता॒ रथे॑न । अं॒शोः सु॒तं पा॑यय मत्स॒रस्य॑ क्ष॒यद्वी॑रं वर्धय सू॒नृता॑भिः ॥
ā́yam adyá su-kṛ́taṃ prātár ícchann iṣṭéḥ pútraṃ vásumatā ráthena | aṃśóḥ sutáṃ pāyaya matsaráस्य kṣayád-vīraṃ vardhaya sūnṛ́tābhiḥ ||
He comes today seeking the well-done work, the son of aspiration, in a chariot rich with substance. Give him to drink the pressed delight of Aṃśu, the soma of rapture; increase the abiding heroic strength by the powers of luminous truth.
आय॑म् । अ॒द्य । सु॒ऽकृत॑म् । प्रा॒तः । इ॒च्छन् । इ॒ष्टेः । पु॒त्रम् । वसु॑मता । रथे॑न । अं॒शोः । सु॒तम् । पा॒य॒य॒ । म॒त्स॒रस्य॑ । क्ष॒यत्ऽवी॑रम् । व॒र्ध॒य॒ । सू॒नृता॑भिः ॥आयम् । अद्य । सुकृतम् । प्रातः । इच्छन् । इष्टेः । पुत्रम् । वसुमता । रथेन । अंशोः । सुतम् । पायय । मत्सरस्य । क्षयत्वीरम् । वर्धय । सूनृताभिः ॥āyam | adya | su-kṛtam | prātaḥ | icchan | iṣṭeḥ | putram | vasumatā | rathena | aṃśoḥ | sutam | pāyaya | matsarasya | kṣayat-vīram | vardhaya | sūnṛtābhiḥ