Sukta 1.125
उप क्षरन्ति सिन्धवो मयोभुव ईजानं च यक्ष्यमाणं च धेनवः । पृणन्तं च पपुरिं च श्रवस्यवो घृतस्य धारा उप यन्ति विश्वतः ॥
उप॑ क्षरन्ति॒ सिन्ध॑वो मयो॒भुव॑ ईजा॒नं च॑ य॒क्ष्यमा॑णं च धे॒नव॑: । पृ॒णन्तं॑ च॒ पपु॑रिं च श्रव॒स्यवो॑ घृ॒तस्य॒ धारा॒ उप॑ यन्ति वि॒श्वत॑: ॥
úpa kṣaranti síndhavo mayobhúva ījānáṃ ca yakṣyámāṇaṃ ca dhénavaḥ | pṛṇántaṃ ca pápuriṃ ca śravasyávo ghṛtásya dhā́rā úpa yanti viśvátah ||
Toward him flow the rivers of sweetness, the milking powers, to one who worships and is ready to sacrifice. To the fulfiller and the wide receiver, seeking the true hearing, streams of clarified light come from every side.
उप॑ । क्ष॒र॒न्ति॒ । सिन्ध॑वः । म॒यः॒ऽभुवः॑ । ई॒जा॒नम् । च॒ । य॒क्ष्यमा॑णम् । च॒ । धे॒नवः॑ । पृ॒णन्त॑म् । च॒ । पपु॑रिम् । च॒ । श्र॒व॒स्यवः॑ । घृ॒तस्य॑ । धाराः॑ । उप॑ । य॒न्ति॒ । वि॒श्वतः॑ ॥उप । क्षरन्ति । सिन्धवः । मयःभुवः । ईजानम् । च । यक्ष्यमाणम् । च । धेनवः । पृणन्तम् । च । पपुरिम् । च । श्रवस्यवः । घृतस्य । धाराः । उप । यन्ति । विश्वतः ॥upa | kṣaranti | sindhavaḥ | mayaḥ-bhuvaḥ | ījānam | ca | yakṣyamāṇam | ca | dhenavaḥ | pṛṇantam | ca | papurim | ca | śravasyavaḥ | ghṛtasya | dhārāḥ | upa | yanti | viśvataḥ