Sukta 1.125
सुगुरसत्सुहिरण्यः स्वश्वो बृहदस्मै वय इन्द्रो दधाति । यस्त्वायन्तं वसुना प्रातरित्वो मुक्षीजयेव पदिमुत्सिनाति ॥
सु॒गुर॑सत्सुहिर॒ण्यः स्वश्वो॑ बृ॒हद॑स्मै॒ वय॒ इन्द्रो॑ दधाति । यस्त्वा॒यन्तं॒ वसु॑ना प्रातरित्वो मु॒क्षीज॑येव॒ पदि॑मुत्सि॒नाति॑ ॥
su-gúr asat su-hiraṇyáḥ sváśvo bṛhád asmai váya índro dadhāti | yás tvāyántaṃ vásunā prātaritvo múkṣījayéva pádim ut-sinā́ti ||
He becomes rich in cattle, in gold, in horses; Indra sets for him a vast field of increase. Whoever, O bringer-at-dawn, meets you with substance and breaks open the ‘footing’ like one winning release, he clears the path of progress.
सु॒ऽगुः । अ॒स॒त् । सु॒ऽहि॒र॒ण्यः । सु॒ऽअश्वः॑ । बृ॒हत् । अ॒स्मै॒ । वयः॑ । इन्द्रः॑ । द॒धा॒ति॒ । यः । त्वा॒ । आ॒ऽयन्त॑म् । वसु॑ना । प्रा॒तः॒ऽइ॒त्वः॒ । मु॒क्षीज॑याऽइव । पदि॑म् । उ॒त्ऽसि॒नाति॑ ॥सुगुः । असत् । सुहिरण्यः । सुअश्वः । बृहत् । अस्मै । वयः । इन्द्रः । दधाति । यः । त्वा । आयन्तम् । वसुना । प्रातःइत्वः । मुक्षीजयाइव । पदिम् । उत्सिनाति ॥su-guḥ | asat | su-hiraṇyaḥ | su-aśvaḥ | bṛhat | asmai | vayaḥ | indraḥ | dadhāti | yaḥ | tvā | āyantam | vasunā | prātaḥ-itvaḥ | mukṣījayāiva | padim | ut-sināti