Sukta 1.122
अस्य स्तुषे महिमघस्य राधः सचा सनेम नहुषः सुवीराः । जनो यः पज्रेभ्यो वाजिनीवानश्वावतो रथिनो मह्यं सूरिः ॥
अ॒स्य स्तु॑षे॒ महि॑मघस्य॒ राध॒: सचा॑ सनेम॒ नहु॑षः सु॒वीरा॑: । जनो॒ यः प॒ज्रेभ्यो॑ वा॒जिनी॑वा॒नश्वा॑वतो र॒थिनो॒ मह्यं॑ सू॒रिः ॥
asyá stuṣe máhimaghasya rā́dhaḥ sácā sanema náhuṣaḥ su-vīrā́ḥ | jáno yáḥ pajrébhyo vājinī́vān aśvā́vato rathíno máhyaṁ sū́riḥ ||
I praise this bounty of the great-giver; together may we win it, O Nahusha, with good heroes. The patron who, rich in driving force, gives to the Pajras horses and chariots—may that illumined giver extend it also to me: the means of victorious movement and the strength to carry the soul forward.
अ॒स्य । स्तु॒षे॒ । महि॑ऽमघस्य । राधः॑ । सचा॑ । स॒ने॒म॒ । नहु॑षः । सु॒ऽवीराः॑ । जनः॑ । यः । प॒ज्रेभ्यः॑ । वा॒जिनी॑ऽवान् । अश्व॑ऽवतः । र॒थिनः॑ । मह्य॑म् । सू॒रिः ॥अस्य । स्तुषे । महिमघस्य । राधः । सचा । सनेम । नहुषः । सुवीराः । जनः । यः । पज्रेभ्यः । वाजिनीवान् । अश्ववतः । रथिनः । मह्यम् । सूरिः ॥asya | stuṣe | mahi-maghasya | rādhaḥ | sacā | sanema | nahuṣaḥ | su-vīrāḥ | janaḥ | yaḥ | pajrebhyaḥ | vājinī-vān | aśva-vataḥ | rathinaḥ | mahyam | sūr iḥ