Sukta 1.122
स्तुषे सा वां वरुण मित्र रातिर्गवां शता पृक्षयामेषु पज्रे । श्रुतरथे प्रियरथे दधानाः सद्यः पुष्टिं निरुन्धानासो अग्मन् ॥
स्तु॒षे सा वां॑ वरुण मित्र रा॒तिर्गवां॑ श॒ता पृ॒क्षया॑मेषु प॒ज्रे । श्रु॒तर॑थे प्रि॒यर॑थे॒ दधा॑नाः स॒द्यः पु॒ष्टिं नि॑रुन्धा॒नासो॑ अग्मन् ॥
stuṣé sā́ vāṁ varuṇa mitra rātír gávāṁ śatā́ pṛkṣáyāmeṣu pajré | śrutárathe priyárathe dádhānāḥ sadyáḥ puṣṭíṁ nirundhānā́so agman ||
I praise that gift of yours, O Varuṇa and Mitra: hundreds of luminous cows—rays—won in the contest of growth by the Pajra. Bearing the chariot of inspired hearing and the chariot beloved of the gods, they came, at once securing nourishment and fullness.
स्तु॒षे । सा । वा॒म् । व॒रु॒ण॒ । मि॒त्र॒ । रा॒तिः । गवा॑म् । श॒ता । पृ॒क्षऽया॑मेषु । प॒ज्रे । श्रु॒तऽर॑थे । प्रि॒यऽर॑थे । दधा॑नाः । स॒द्यः । पु॒ष्टिम् । नि॒ऽरु॒न्धा॒नासः॑ । अ॒ग्म॒न् ॥स्तुषे । सा । वाम् । वरुण । मित्र । रातिः । गवाम् । शता । पृक्षयामेषु । पज्रे । श्रुतरथे । प्रियरथे । दधानाः । सद्यः । पुष्टिम् । निरुन्धानासः । अग्मन् ॥stuṣe | sā | vām | varuṇa | mitra | rātiḥ | gavām | śatā | pṛkṣa-yāmeṣu | pajre | śruta-rathe | priya-rathe | dadhānāḥ | sadyaḥ | puṣṭim | ni-rundhānāsaḥ | agman