Sukta 1.122
श्रुतं मे मित्रावरुणा हवेमोत श्रुतं सदने विश्वतः सीम् । श्रोतु नः श्रोतुरातिः सुश्रोतुः सुक्षेत्रा सिन्धुरद्भिः ॥
श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मोत श्रु॑तं॒ सद॑ने वि॒श्वत॑: सीम् । श्रोतु॑ न॒: श्रोतु॑रातिः सु॒श्रोतु॑: सु॒क्षेत्रा॒ सिन्धु॑र॒द्भिः ॥
śrutáṁ me mitrā́varuṇā havé móta śrutáṁ sádane viśvátah sīm | śrótu naḥ śrótu-rātiḥ suśrótuḥ su-kṣétrā síndhur adbhiḥ ||
Hear my call, O Mitra and Varuṇa; hear it also in the seat of your power from every side. May the giver of hearing hear us—may there be perfect hearing; may the River with its waters become a good field for us, a wide channel for the right movement.
श्रु॒तम् । मे॒ । मि॒त्रा॒व॒रु॒णा॒ । हवा॑ । इ॒मा । उ॒त । श्रु॒त॒म् । सद॑ने । वि॒श्वतः॑ । सी॒म् । श्रोतु॑ । नः॒ । श्रोतु॑ऽरातिः । सु॒ऽश्रोतुः॑ । सु॒ऽक्षेत्रा॑ । सिन्धुः॑ । अ॒त्ऽभिः ॥श्रुतम् । मे । मित्रावरुणा । हवा । इमा । उत । श्रुतम् । सदने । विश्वतः । सीम् । श्रोतु । नः । श्रोतुरातिः । सुश्रोतुः । सुक्षेत्रा । सिन्धुः । अत्भिः ॥śrutam | me | mitrāvaruṇā | havā | imā | uta | śrutam | sadane | viśvataḥ | sīm | śrotu | naḥ | śrotu-rātiḥ | su-śrotuḥ | su-kṣetrā | sindhuḥ | at-bhiḥ