Sukta 1.122
उत त्या मे यशसा श्वेतनायै व्यन्ता पान्तौशिजो हुवध्यै । प्र वो नपातमपां कृणुध्वं प्र मातरा रास्पिनस्यायोः ॥
उ॒त त्या मे॑ य॒शसा॑ श्वेत॒नायै॒ व्यन्ता॒ पान्तौ॑शि॒जो हु॒वध्यै॑ । प्र वो॒ नपा॑तम॒पां कृ॑णुध्वं॒ प्र मा॒तरा॑ रास्पि॒नस्या॒योः ॥
utá tyā́ me yaśásā śvetanā́yai vyántā pā́ntāuśíjo huvádhyai | prá vo napā́tam apā́ṁ kṛṇudhvam prá mā́tarā rāspinásyā́yoḥ ||
And those, for my fame and for the shining advance, let them come near—guarded—so that the Auśija may call them. Make ready for yourselves the Child of the Waters; bring forward the two Mothers of the Rāspina—powers that bear and fashion the growth of the light within.
उ॒त । त्या । मे॒ । य॒शसा॑ । श्वे॒त॒नायै॑ । व्यन्ता॑ । पान्ता॑ । औ॒शि॒जः॒ । हु॒वध्यै॑ । प्र । वः॒ । नपा॑तम् । अ॒पाम् । कृ॒णु॒ध्व॒म् । प्र । मा॒तरा॑ । रा॒स्पि॒नस्य॑ । आ॒योः ॥उत । त्या । मे । यशसा । श्वेतनायै । व्यन्ता । पान्ता । औशिजः । हुवध्यै । प्र । वः । नपातम् । अपाम् । कृणुध्वम् । प्र । मातरा । रास्पिनस्य । आयोः ॥uta | tyā | me | yaśasā | śvetanāyai | vyantā | pāntā | auśijaḥ | huvadhyai | pra | vaḥ | napātam | apām | kṛṇudhvam | pra | mātarā | rāspinasya | āyoḥ