Sukta 1.122
ममत्तु नः परिज्मा वसर्हा ममत्तु वातो अपां वृषण्वान् । शिशीतमिन्द्रापर्वता युवं नस्तन्नो विश्वे वरिवस्यन्तु देवाः ॥
म॒मत्तु॑ न॒: परि॑ज्मा वस॒र्हा म॒मत्तु॒ वातो॑ अ॒पां वृष॑ण्वान् । शि॒शी॒तमि॑न्द्रापर्वता यु॒वं न॒स्तन्नो॒ विश्वे॑ वरिवस्यन्तु दे॒वाः ॥
mámattu naḥ párijmā vasarhā́ mámattu vā́to apā́ṁ vṛ́ṣaṇvān | śiśītám indrā́parvatā yuváṁ nas tán no víśve varivasyantu devā́ḥ ||
May the wide-moving force delight us, may the strong wind of the waters delight us; O Indra and Parvata, sharpen for us the energies of the being. Then may all the gods make wide room for us—space for the soul’s free movement and victorious becoming.
म॒मत्तु॑ । नः॒ । परि॑ऽज्मा । व॒स॒र्हा । म॒मत्तु॑ । वातः॑ । अ॒पाम् । वृष॑ण्ऽवान् । शि॒शी॒तम् । इ॒न्द्रा॒प॒र्व॒ता॒ । यु॒वम् । नः॒ । तत् । नः॒ । विश्वे॑ । व॒रि॒व॒स्य॒न्तु॒ । दे॒वाः ॥ममत्तु । नः । परिज्मा । वसर्हा । ममत्तु । वातः । अपाम् । वृषण्वान् । शिशीतम् । इन्द्रापर्वता । युवम् । नः । तत् । नः । विश्वे । वरिवस्यन्तु । देवाः ॥mamattu | naḥ | pari-jmā | vasarhā | mamattu | vātaḥ | apām | vṛṣaṇ-vān | śiśītam | indrāparvatā | yuvam | naḥ | tat | naḥ | viśve | varivasyantu | devāḥ