Sukta 1.122
पत्नीव पूर्वहूतिं वावृधध्या उषासानक्ता पुरुधा विदाने । स्तरीर्नात्कं व्युतं वसाना सूर्यस्य श्रिया सुदृशी हिरण्यैः ॥
पत्नी॑व पू॒र्वहू॑तिं वावृ॒धध्या॑ उ॒षासा॒नक्ता॑ पुरु॒धा विदा॑ने । स्त॒रीर्नात्कं॒ व्यु॑तं॒ वसा॑ना॒ सूर्य॑स्य श्रि॒या सु॒दृशी॒ हिर॑ण्यैः ॥
patnī́va pūrváhūtiṁ vāvṛdhádhyai uṣásā́naktā purudhā́ vidā́ne | starī́r nā́tkaṁ vyùtaṁ vásānā sū́ryasya śriyā́ sudṛ́śī híraṇyaiḥ ||
Like a wife who enlarges the first-called delight, Dawn and Night, knowing in many ways, grow the ancient invocation. Wearing the wide-spread robe, beautiful to behold with the splendour of the Sun, they shine with golden forms—opening for us the ordered alternation that educates the soul.
पत्नी॑ऽइव । पू॒र्वऽहू॑तिम् । व॒वृ॒धध्यै॑ । उ॒षसा॒नक्ता॑ । पु॒रु॒धा । विदा॑ने॒ इति॑ । स्त॒रीः । न । अत्क॑म् । विऽउ॑तम् । वसा॑ना । सूर्य॑स्य । श्रि॒या । सु॒ऽदृशी॑ । हिर॑ण्यैः ॥पत्नीइव । पूर्वहूतिम् । ववृधध्यै । उषसानक्ता । पुरुधा । विदाने इति । स्तरीः । न । अत्कम् । विउतम् । वसाना । सूर्यस्य । श्रिया । सुदृशी । हिरण्यैः ॥patnī-iva | pūrva-hūtim | vavṛdhadhyai | uṣasānaktā | purudhā | vidāneiti | starīḥ | na | atkam | vi-utam | vasānā | sūryasya | śriyā | su-dṛśī | hiraṇyaiḥ