Sukta 1.122
प्र वः पान्तं रघुमन्यवोऽन्धो यज्ञं रुद्राय मीळ्हुषे भरध्वम् । दिवो अस्तोष्यसुरस्य वीरैरिषुध्येव मरुतो रोदस्योः ॥
प्र व॒: पान्तं॑ रघुमन्य॒वोऽन्धो॑ य॒ज्ञं रु॒द्राय॑ मी॒ळ्हुषे॑ भरध्वम् । दि॒वो अ॑स्तो॒ष्यसु॑रस्य वी॒रैरि॑षु॒ध्येव॑ म॒रुतो॒ रोद॑स्योः ॥
prá vaḥ pā́ntaṁ raghu-manyavo andhó yajñáṁ rudrā́ya mīḷhúṣe bharadhvam | divó astoṣy ásurasya vī́rair iṣudhyā́iva marúto ródasyoḥ ||
Bring forward, O swift in ardour, the guarded offering and the pressed delight; carry the sacrifice to Rudra, the gracious healer. Praise the mighty lord of luminous power with his heroes, the Maruts, who stand like a quiver full of forces between the two worlds.
प्र । वः॒ । पान्त॑म् । र॒घु॒ऽम॒न्य॒वः॒ । अन्धः॑ । य॒ज्ञम् । रु॒द्राय॑ । मी॒ळ्हुषे॑ । भ॒र॒ध्व॒म् । दि॒वः । अ॒स्तो॒षि॒ । असु॑रस्य । वी॒रैः । इ॒षु॒ध्याऽइ॑व । म॒रुतः॑ । रोद॑स्योः ॥प्र । वः । पान्तम् । रघुमन्यवः । अन्धः । यज्ञम् । रुद्राय । मीळ्हुषे । भरध्वम् । दिवः । अस्तोषि । असुरस्य । वीरैः । इषुध्याइव । मरुतः । रोदस्योः ॥pra | vaḥ | pāntam | raghu-manyavaḥ | andhaḥ | yajñam | rudrāya | mīḷhuṣe | bharadhvam | divaḥ | astoṣi | asurasya | vīraiḥ | iṣudhyāiva | marutaḥ | rodasyoḥ