Sukta 1.122
एतं शर्धं धाम यस्य सूरेरित्यवोचन्दशतयस्य नंशे । द्युम्नानि येषु वसुताती रारन्विश्वे सन्वन्तु प्रभृथेषु वाजम् ॥
ए॒तं शर्धं॑ धाम॒ यस्य॑ सू॒रेरित्य॑वोच॒न्दश॑तयस्य॒ नंशे॑ । द्यु॒म्नानि॒ येषु॑ व॒सुता॑ती रा॒रन्विश्वे॑ सन्वन्तु प्रभृ॒थेषु॒ वाज॑म् ॥
etáṃ śárdhaṃ dhā́ma yásya sūrér íty avocan dáśa-tayasya náṃśe | dyumnā́ni yéṣu vasú-tātī rārán víśve sanvantu prabhṛthéṣu vā́jam ||
‘This is the host, this the foundation, of that luminous giver’—so they declared, for the portion of Daśataya; in whom the lights of power and the fullness of riches delight: may all win the plenitude of force in the offerings brought forth.
ए॒तम् । शर्ध॑म् । धाम॑ । यस्य॑ । सू॒रेः । इति॑ । अ॒वो॒च॒न् । दश॑ऽतयस्य । नंशे॑ । द्यु॒म्नानि॑ । येषु॑ । व॒सुऽता॑तिः । र॒रन् । विश्वे॑ । स॒न्व॒न्तु॒ । प्र॒ऽभृ॒थेषु॑ । वाज॑म् ॥एतम् । शर्धम् । धाम । यस्य । सूरेः । इति । अवोचन् । दशतयस्य । नंशे । द्युम्नानि । येषु । वसुतातिः । ररन् । विश्वे । सन्वन्तु । प्रभृथेषु । वाजम् ॥etam | śardham | dhāma | yasya | sūreḥ | iti | avocan | daśa-tayasya | naṃśe | dyumnāni | yeṣu | vasu-tātiḥ | raran | viśve | sanvantu | pra-bhṛtheṣu | vājam