Sukta 1.122
अध ग्मन्ता नहुषो हवं सूरेः श्रोता राजानो अमृतस्य मन्द्राः । नभोजुवो यन्निरवस्य राधः प्रशस्तये महिना रथवते ॥
अध॒ ग्मन्ता॒ नहु॑षो॒ हवं॑ सू॒रेः श्रोता॑ राजानो अ॒मृत॑स्य मन्द्राः । न॒भो॒जुवो॒ यन्नि॑र॒वस्य॒ राध॒: प्रश॑स्तये महि॒ना रथ॑वते ॥
ádha gmantā náhuṣo hávaṃ sūrḗḥ śrótā rājāno amṛ́tasya mandrāḥ | nabhó-juvo yán niravásya rā́dhaḥ práśastaye mahinā́ rátha-vate ||
Then may the kings, glad with the nectar of immortality, come to the call of the luminous giver; swift as the sky’s movement, bringing the bounty of one who seeks protection—so that by their greatness the chariot-bearing one may be praised.
अध॑ । ग्मन्त॑ । नहु॑षः॑ । हव॑म् । सू॒रेः । श्रोत॑ । रा॒जा॒नः॒ । अ॒मृत॑स्य । म॒न्द्राः॒ । न॒भः॒ऽजुवः॑ । यत् । नि॒र॒वस्य॑ । राधः॑ । प्रऽश॑स्तये । म॒हि॒ना । रथ॑ऽवते ॥अध । ग्मन्त । नहुषः । हवम् । सूरेः । श्रोत । राजानः । अमृतस्य । मन्द्राः । नभःजुवः । यत् । निरवस्य । राधः । प्रशस्तये । महिना । रथवते ॥adha | gmanta | nahuṣaḥ | havam | sūreḥ | śrota | rājānaḥ | amṛtasya | mandrāḥ | nabhaḥ-juvaḥ | yat | niravasya | rādhaḥ | pra-śastaye | mahinā | ratha-vate