Sukta 1.114
उप ते स्तोमान्पशुपा इवाकरं रास्वा पितर्मरुतां सुम्नमस्मे । भद्रा हि ते सुमतिर्मृळयत्तमाथा वयमव इत्ते वृणीमहे ॥
उप॑ ते॒ स्तोमा॑न्पशु॒पा इ॒वाक॑रं॒ रास्वा॑ पितर्मरुतां सु॒म्नम॒स्मे । भ॒द्रा हि ते॑ सुम॒तिर्मृ॑ळ॒यत्त॒माथा॑ व॒यमव॒ इत्ते॑ वृणीमहे ॥
úpa te stómān paśupā́ iva ā́ akaram rásvā pitaḥ marutā́ṃ sumnám asmé | bhadrā́ hí te sumatír mṛḷayát-tamā́ athā́ vayám áva ít te vṛṇīmahe ||
To you I have brought my hymns, as one brings the herd to its keeper. O Father of the Maruts, grant to us your blissful favour; for your goodwill is indeed auspicious and most full of mercy. Therefore it is your protection alone that we choose.
उप॑ । ते॒ । स्तोमा॑न् । प॒शु॒पाःऽइ॑व । आ । अ॒क॒र॒म् । रास्व॑ । पि॒तः॒ । म॒रु॒ता॒म् । सु॒म्नम् । अ॒स्मे इति॑ । भ॒द्रा । हि । ते॒ । सु॒ऽमतिः । मृ॒ळ॒यत्ऽत॑मा । अथ॑ । व॒यम् । अव॑ । इत् । ते॒ । वृ॒णी॒म॒हे॒ ॥उप । ते । स्तोमान् । पशुपाःइव । आ । अकरम् । रास्व । पितः । मरुताम् । सुम्नम् । अस्मे इति । भद्रा । हि । ते । सुमतिः । मृळयत्तमा । अथ । वयम् । अव । इत् । ते । वृणीमहे ॥upa | te | stomān | paśupāḥ-iva | ā | akaram | rāsva | pitaḥ | marutām | sumnam | asme iti | bhadrā | hi | te | su-matiḥ | mṛḷayat-tamā | atha | vayam | ava | it | te | vṛṇīmahe