Sukta 1.114
आरे ते गोघ्नमुत पूरुषघ्नं क्षयद्वीर सुम्नमस्मे ते अस्तु । मृळा च नो अधि च ब्रूहि देवाधा च नः शर्म यच्छ द्विबर्हाः ॥
आ॒रे ते॑ गो॒घ्नमु॒त पू॑रुष॒घ्नं क्षय॑द्वीर सु॒म्नम॒स्मे ते॑ अस्तु । मृ॒ळा च॑ नो॒ अधि॑ च ब्रूहि दे॒वाधा॑ च न॒: शर्म॑ यच्छ द्वि॒बर्हा॑: ॥
āré te go-ghnám utá pūruṣa-ghnáṃ kṣáyat-vīra sumnám asmé te astu | mṛḷā́ ca no ádhi ca brūhi devā́dhā ca naḥ śárma yaccha dvi-bárhāḥ ||
Far from you be the slaying of our light-richness and the slaying of our human strength; O giver of abiding heroism, let your favour be with us. Be gracious to us and speak to us from above, O god; and then grant us peace and shelter, O you of double support.
आ॒रे । ते॒ । गो॒ऽघ्नम् । उ॒त । पु॒रु॒ष॒ऽघ्नम् । क्षय॑त्ऽवीर । सु॒म्नम् । अ॒स्मे इति॑ । ते॒ । अ॒स्तु॒ । मृ॒ळ । च॒ । नः॒ । अधि॑ । च॒ । ब्रू॒हि॒ । दे॒व॒ । अध॑ । च॒ । नः॒ । शर्म॑ । य॒च्छ॒ । द्वि॒ऽबर्हाः॑ ॥आरे । ते । गोघ्नम् । उत । पुरुषघ्नम् । क्षयत्वीर । सुम्नम् । अस्मे इति । ते । अस्तु । मृळ । च । नः । अधि । च । ब्रूहि । देव । अध । च । नः । शर्म । यच्छ । द्विबर्हाः ॥āre | te | go--ghnam | uta | puruṣa-ghnam | kṣayat-vīra | sumnam | asme iti | te | astu | mṛḷa | ca | naḥ | adhi | ca | brūhi | deva | adha | ca | naḥ | śarma | yaccha | dvi-barhāḥ