Sukta 1.114
मा नस्तोके तनये मा न आयौ मा नो गोषु मा नो अश्वेषु रीरिषः । वीरान्मा नो रुद्र भामितो वधीर्हविष्मन्तः सदमित्त्वा हवामहे ॥
मा न॑स्तो॒के तन॑ये॒ मा न॑ आ॒यौ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः । वी॒रान्मा नो॑ रुद्र भामि॒तो व॑धीर्ह॒विष्म॑न्त॒: सद॒मित्त्वा॑ हवामहे ॥
mā́ nas toké tánaye mā́ na āyáu mā́ no góṣu mā́ no áśveṣu rīriṣaḥ | vīrā́n mā́ no rudra bhāmitó vadhīr havíṣmantaḥ sádam ít tvā havāmahe ||
Do not harm us in our child and our offspring, nor in our life-force; do not harm us in our rays of Light and in our powers of swift movement. Do not slay our heroes, O Rudra, even when angered; we who bear the offering call you always.
मा । नः॒ । तो॒के । तन॑ये । मा । नः॒ । आ॒यौ । मा । नः॒ । गोषु॑ । मा । नः॒ । अश्वे॑षु । रि॒रि॒षः॒ । वी॒रान् । मा । नः॒ । रु॒द्र॒ । भा॒मि॒तः । व॒धीः॒ । ह॒विष्म॑न्तः । सद॑म् । इत् । त्वा॒ । ह॒वा॒म॒हे॒ ॥मा । नः । तोके । तनये । मा । नः । आयौ । मा । नः । गोषु । मा । नः । अश्वेषु । रिरिषः । वीरान् । मा । नः । रुद्र । भामितः । वधीः । हविष्मन्तः । सदम् । इत् । त्वा । हवामहे ॥mā | naḥ | toke | tanaye | mā | naḥ | āyau | mā | naḥ | goṣu | mā | naḥ | aśveṣu | ririṣaḥ | vīrān | mā | naḥ | rudra | bhāmitaḥ | vadhīḥ | haviṣmantaḥ | sadam | it | tvā | havāmahe