Sukta 1.114
दिवो वराहमरुषं कपर्दिनं त्वेषं रूपं नमसा नि ह्वयामहे । हस्ते बिभ्रद्भेषजा वार्याणि शर्म वर्म च्छर्दिरस्मभ्यं यंसत् ॥
दि॒वो व॑रा॒हम॑रु॒षं क॑प॒र्दिनं॑ त्वे॒षं रू॒पं नम॑सा॒ नि ह्व॑यामहे । हस्ते॒ बिभ्र॑द्भेष॒जा वार्या॑णि॒ शर्म॒ वर्म॑ च्छ॒र्दिर॒स्मभ्यं॑ यंसत् ॥
divó varāhám aruṣáṃ kapardínaṃ tveṣáṃ rūpáṃ namasā́ ní hvayāmahe | háste bíbhrad bheṣajá vā́ryāṇi śárma várma chardír asmábhyaṃ yaṃsat ||
With obeisance we invoke the blazing form—Rudra of heaven, the ruddy boar, the matted-haired—who bears in his hand the choicest healings; may he grant to us shelter, armour, and a covering of protection.
दि॒वः । व॒रा॒हम् । अ॒रु॒षम् । क॒प॒र्दिन॑म् । त्वे॒षम् । रू॒पम् । नम॑सा । नि । ह्व॒या॒म॒हे॒ । हस्ते॑ । बिभ्र॑त् । भे॒ष॒जा । वार्या॑णि । शर्म॑ । वर्म॑ । छ॒र्दिः । अ॒स्मभ्य॑म् । यं॒स॒त् ॥दिवः । वराहम् । अरुषम् । कपर्दिनम् । त्वेषम् । रूपम् । नमसा । नि । ह्वयामहे । हस्ते । बिभ्रत् । भेषजा । वार्याणि । शर्म । वर्म । छर्दिः । अस्मभ्यम् । यंसत् ॥divaḥ | varāham | aruṣam | kapardinam | tveṣam | rūpam | namasā | ni | hvayāmahe | haste | bibhrat | bheṣajā | vāryāṇi | śarma | varma | chardiḥ | asmabhyam | yaṃsat