Sukta 1.114
त्वेषं वयं रुद्रं यज्ञसाधं वङ्कुं कविमवसे नि ह्वयामहे । आरे अस्मद्दैव्यं हेळो अस्यतु सुमतिमिद्वयमस्या वृणीमहे ॥
त्वे॒षं व॒यं रु॒द्रं य॑ज्ञ॒साधं॑ व॒ङ्कुं क॒विमव॑से॒ नि ह्व॑यामहे । आ॒रे अ॒स्मद्दैव्यं॒ हेळो॑ अस्यतु सुम॒तिमिद्व॒यम॒स्या वृ॑णीमहे ॥
tveṣáṃ vayáṃ rudráṃ yajñá-sādhaṃ vaṅkúṃ kavím aváse ní hvayāmahe | āré asmád daivyáṃ héḷo asyatu sumatím íd vayám asyá ā́ vṛṇīmahe ||
We call inward for help upon Rudra, the intense Force, accomplisher of the sacrifice, the inward-bending Seer. Far from us may his divine wrath be cast away; it is his luminous goodwill alone that we choose and receive into our being.
त्वे॒षम् । व॒यम् । रु॒द्रम् । य॒ज्ञ॒ऽसाध॑म् । व॒ङ्कुम् । क॒विम् । अव॑से । नि । ह्व॒या॒म॒हे॒ । आ॒रे । अ॒स्मत् । दैव्य॑म् । हेळः॑ । अ॒स्य॒तु॒ । सु॒ऽम॒तिम् । इत् । व॒यम् । अ॒स्य॒ । आ । वृ॒णी॒म॒हे॒ ॥त्वेषम् । वयम् । रुद्रम् । यज्ञसाधम् । वङ्कुम् । कविम् । अवसे । नि । ह्वयामहे । आरे । अस्मत् । दैव्यम् । हेळः । अस्यतु । सुमतिम् । इत् । वयम् । अस्य । आ । वृणीमहे ॥tveṣam | vayam | rudram | yajña-sādham | vaṅkum | kavim | avase | ni | hvayāmahe | āre | asmat | daivyam | heḷaḥ | asyatu | su-matim | it | vayam | asya | ā | vṛṇīmahe