Sukta 1.114
इदं पित्रे मरुतामुच्यते वचः स्वादोः स्वादीयो रुद्राय वर्धनम् । रास्वा च नो अमृत मर्तभोजनं त्मने तोकाय तनयाय मृळ ॥
इ॒दं पि॒त्रे म॒रुता॑मुच्यते॒ वच॑: स्वा॒दोः स्वादी॑यो रु॒द्राय॒ वर्ध॑नम् । रास्वा॑ च नो अमृत मर्त॒भोज॑नं॒ त्मने॑ तो॒काय॒ तन॑याय मृळ ॥
idáṃ pitré marútām ucyate vácaḥ svādóḥ svādī́yo rudrā́ya várdhanam | rásvā ca no amṛta marta-bhójanaṃ tmáne tokā́ya tánayāya mṛḷa ||
This word is spoken to the Father of the Maruts, sweeter than sweetness, a strengthening for Rudra. O Immortal, give us also the nourishment that mortals can receive; be gracious to our self, to our child-soul, to our growing lineage of becoming.
इ॒दम् । पि॒त्रे । म॒रुता॑म् । उ॒च्य॒ते॒ । वचः॑ । स्वा॒दोः । स्वादी॑यः । रु॒द्राय॑ । वर्ध॑नम् । रास्व॑ । च॒ । नः॒ । अ॒मृ॒त॒ । म॒र्त॒ऽभोज॑नम् । त्मने॑ । तो॒काय । तन॑याय । मृ॒ळ॒ ॥इदम् । पित्रे । मरुताम् । उच्यते । वचः । स्वादोः । स्वादीयः । रुद्राय । वर्धनम् । रास्व । च । नः । अमृत । मर्तभोजनम् । त्मने । तोकाय । तनयाय । मृळ ॥idam | pitre | marutām | ucyate | vacaḥ | svādoḥ | svādīyaḥ | rudrāya | vardhanam | rāsva | ca | naḥ | amṛta | marta-bhojanam | tmane | tokāya | tanayāya | mṛḷa