Sukta 1.114
अश्याम ते सुमतिं देवयज्यया क्षयद्वीरस्य तव रुद्र मीढ्वः । सुम्नायन्निद्विशो अस्माकमा चरारिष्टवीरा जुहवाम ते हविः ॥
अ॒श्याम॑ ते सुम॒तिं दे॑वय॒ज्यया॑ क्ष॒यद्वी॑रस्य॒ तव॑ रुद्र मीढ्वः । सु॒म्ना॒यन्निद्विशो॑ अ॒स्माक॒मा च॒रारि॑ष्टवीरा जुहवाम ते ह॒विः ॥
aśyā́ma te sumatíṃ devayajyáyā kṣayádvīrasya táva rudra mīḍhvaḥ | sumnāyánn íd víśo asmā́kam ā́ cara áriṣṭavīrā juhavāma te havíḥ ||
May we attain thy good-will through the godward sacrifice, O Rudra, bountiful lord of a hero-strong dwelling. Seeking thy grace, come indeed to our clans; uninjured in soul-force, we would invoke thee with our offering.
अ॒श्याम॑ । ते॒ । सु॒ऽम॒तिम् । दे॒व॒ऽय॒ज्यया॑ । क्ष॒यत्ऽवी॑रस्य । तव॑ । रु॒द्र॒ । मी॒ढ्वः॒ । सु॒म्न॒ऽयन् । इत् । विशः॑ । अ॒स्माक॑म् । आ । च॒र॒ । अरि॑ष्टऽवीराः । जु॒ह॒वा॒म॒ । ते॒ । ह॒विः ॥अश्याम । ते । सुमतिम् । देवयज्यया । क्षयत्वीरस्य । तव । रुद्र । मीढ्वः । सुम्नयन् । इत् । विशः । अस्माकम् । आ । चर । अरिष्टवीराः । जुहवाम । ते । हविः ॥aśyāma | te | su-matim | deva-yajyayā | kṣayat-vīrasya | tava | rudra | mīḍhavaḥ | sumna-yan | it | viśaḥ | asmākam | ā | cara | ariṣṭa-vīrāḥ | juhavāma | te | haviḥ