Sukta 1.114
मृळा नो रुद्रोत नो मयस्कृधि क्षयद्वीराय नमसा विधेम ते । यच्छं च योश्च मनुरायेजे पिता तदश्याम तव रुद्र प्रणीतिषु ॥
मृ॒ळा नो॑ रुद्रो॒त नो॒ मय॑स्कृधि क्ष॒यद्वी॑राय॒ नम॑सा विधेम ते । यच्छं च॒ योश्च॒ मनु॑राये॒जे पि॒ता तद॑श्याम॒ तव॑ रुद्र॒ प्रणी॑तिषु ॥
mṛḷā́ no rudróta no máyaḥ kṛdhi kṣayádvīrāya námasā vidhēma te | yác cháṃ ca yóś ca mánur ā́yeje pitā́ tád aśyāma táva rudra praṇī́tiṣu ||
Be gracious to us, O Rudra; and make for us a gladness. To the lord of a hero-strong dwelling we do service with obeisance. The peace and the well-being that our father Manu sought by sacrifice—may we attain that in thy guidances, O Rudra.
मृ॒ळ । नः॒ । रु॒द्र॒ । उ॒त । नः॒ । मयः॑ । कृ॒धि॒ । क्ष॒यत्ऽवी॑राय । नम॑सा । वि॒धे॒म॒ । ते॒ । यत् । शम् । च॒ । योः । च॒ । मनुः॑ । आ॒ऽये॒जे । पि॒ता । तत् । अ॒श्या॒म॒ । तव॑ । रु॒द्र॒ । प्रऽनी॑तिषु ॥मृळ । नः । रुद्र । उत । नः । मयः । कृधि । क्षयत्वीराय । नमसा । विधेम । ते । यत् । शम् । च । योः । च । मनुः । आयेजे । पिता । तत् । अश्याम । तव । रुद्र । प्रनीतिषु ॥mṛḷa | naḥ | rudra | uta | naḥ | mayaḥ | kṛdhi | kṣayat-vīrāya | namasā | vidhema | te | yat | śam | ca | yoḥ | ca | manuḥ | āyeje | pitā | tat | aśyāma | tava | rudra | pra-nītiṣu