Sukta 1.114
इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः । यथा शमसद्द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम् ॥
इ॒मा रु॒द्राय॑ त॒वसे॑ कप॒र्दिने॑ क्ष॒यद्वी॑राय॒ प्र भ॑रामहे म॒तीः । यथा॒ शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मिन्न॑नातु॒रम् ॥
imā́ rudrā́ya taváse kapardíne kṣayádvīrāya prá bharāmahe matī́ḥ | yáthā śám asad dvipáde cátuṣpade víśvaṃ puṣṭáṃ grā́me asmín anāturám ||
These thought-offerings we bear forth to Rudra, the mighty, the tress-bearing, the lord of a dwelling rich in soul-force, so that peace may be for the two-footed and the four-footed; that all nourishment in this settlement may be whole and without affliction.
इ॒माः । रु॒द्राय॑ । त॒वसे॑ । क॒प॒र्दिने॑ । क्ष॒यत्ऽवी॑राय । प्र । भ॒रा॒म॒हे॒ । म॒तीः । यथा॑ । शम् । अस॑त् । द्वि॒ऽपदे॑ । चतुः॑ऽपदे॑ । विश्व॑म् । पु॒ष्टम् । ग्रामे॑ । अ॒स्मिन् । अ॒ना॒तु॒रम् ॥इमाः । रुद्राय । तवसे । कपर्दिने । क्षयत्वीराय । प्र । भरामहे । मतीः । यथा । शम् । असत् । द्विपदे । चतुःपदे । विश्वम् । पुष्टम् । ग्रामे । अस्मिन् । अनातुरम् ॥imāḥ | rudrāya | tavase | kapardine | kṣayat-vīrāya | pra | bharāmahe | matīḥ | yathā | śam | asat | dvi-pade | catuḥ-pade | viśvam | puṣṭam | grāme | asmin | anāturam