Sukta 1.112
याभिः सिन्धुं मधुमन्तमसश्चतं वसिष्ठं याभिरजरावजिन्वतम् । याभिः कुत्सं श्रुतर्यं नर्यमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
याभि॒: सिन्धुं॒ मधु॑मन्त॒मस॑श्चतं॒ वसि॑ष्ठं॒ याभि॑रजरा॒वजि॑न्वतम् । याभि॒: कुत्सं॑ श्रु॒तर्यं॒ नर्य॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
yā́bhiḥ síndhuṃ mádhuvantam ásaścatam vásiṣṭhaṃ yā́bhir ajárāv ájinvatam | yā́bhiḥ kútsaṃ śrutáryaṃ náryam ā́vatam tā́bhir ū́ ṣú ūtíbhir aśvinā́ ā́ gatam ||
O Ashvins, by those powers you made the river-flow grow honeyed with delight; by those you strengthened Vasiṣṭha with unfailing vitality. By those you protected Kutsa, Śrutarya, and Narya. With those sure helps, come here to us.
याभिः॑ । सिन्धु॑म् । मधु॑ऽमन्तम् । अस॑श्चतम् । वसि॑ष्ठम् । याभिः॑ । अ॒ज॒रौ॒ । अजि॑न्वतम् । याभिः॑ । कुत्स॑म् । श्रु॒तर्य॑म् । नर्य॑म् । आव॑तम् । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥याभिः । सिन्धुम् । मधुमन्तम् । असश्चतम् । वसिष्ठम् । याभिः । अजरौ । अजिन्वतम् । याभिः । कुत्सम् । श्रुतर्यम् । नर्यम् । आवतम् । ताभिः । ऊँ इति । सु । ऊतिभिः । अश्विना । आ । गतम् ॥yābhiḥ | sindhum | madhu-mantam | asaścatam | vasiṣṭham | yābhiḥ | ajarau | ajinvatam | yābhiḥ | kutsam | śrutaryam | naryam | āvatam | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam