Sukta 1.112
याभिर्विश्पलां धनसामथर्व्यं सहस्रमीळ्ह आजावजिन्वतम् । याभिर्वशमश्व्यं प्रेणिमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
याभि॑र्वि॒श्पलां॑ धन॒साम॑थ॒र्व्यं॑ स॒हस्र॑मीळ्ह आ॒जावजि॑न्वतम् । याभि॒र्वश॑म॒श्व्यं प्रे॒णिमाव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
yā́bhir viśpálāṃ dhana-sā́m atharvyàṃ sahásra-mīḷha ājā́v ájinvatam | yā́bhir váśam aśvyáṃ préṇim ā́vatam tā́bhir ū́ ṣú ūtíbhir aśvinā́ ā́ gatam ||
O Ashvins, by those powers you quickened Viśpalā in the pressing battle, O thousand-bountied; and by those you protected Vaśa and the horse-lord Preṇi. With those true succours, come here to us.
याभिः॑ । वि॒श्पला॑म् । ध॒न॒ऽसाम् । अ॒थ॒र्व्य॑म् । स॒हस्र॑ऽमीळ्हे । आ॒जौ । अजि॑न्वतम् । याभिः॑ । वश॑म् । अ॒श्व्यम् । प्रे॒णिम् । आव॑तम् । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥याभिः । विश्पलाम् । धनसाम् । अथर्व्यम् । सहस्रमीळ्हे । आजौ । अजिन्वतम् । याभिः । वशम् । अश्व्यम् । प्रेणिम् । आवतम् । ताभिः । ऊँ इति । सु । ऊतिभिः । अश्विना । आ । गतम् ॥yābhiḥ | viśpalām | dhana-sām | atharvyam | sahasra-mīḷhe | ājau | ajinvatam | yābhiḥ | vaśam | aśvyam | preṇim | āvatam | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam