Sukta 1.112
याभिः शचीभिर्वृषणा परावृजं प्रान्धं श्रोणं चक्षस एतवे कृथः । याभिर्वर्तिकां ग्रसिताममुञ्चतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
याभि॒: शची॑भिर्वृषणा परा॒वृजं॒ प्रान्धं श्रो॒णं चक्ष॑स॒ एत॑वे कृ॒थः । याभि॒र्वर्ति॑कां ग्रसि॒ताममु॑ञ्चतं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
yā́bhiḥ śacī́bhir vṛṣaṇā parā-vṛ́jaṃ prá andháṃ śróṇaṃ cákṣase étave kṛtháḥ | yā́bhir vártikāṃ grasitā́m amuñcatam tā́bhir ū́ ṣú ūtíbhir aśvinā́ ā́ gatam ||
O Ashvins, strong lords of luminous force, by those master-powers of yours you turned Parāvṛj—blind and lamed—forward into seeing and movement. By those same powers you released the quail that had been swallowed (by darkness). With those swift and sure succours, come here to us.
याभिः॑ । शची॑भिः । वृ॒ष॒णा॒ । प॒रा॒ऽवृज॑म् । प्र । अ॒न्धम् । श्रो॒णम् । चक्ष॑से । एत॑वे । कृ॒थः । याभिः॑ । वर्ति॑काम् । ग्र॒सि॒ताम् । अमु॑ञ्चतम् । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥याभिः । शचीभिः । वृषणा । परावृजम् । प्र । अन्धम् । श्रोणम् । चक्षसे । एतवे । कृथः । याभिः । वर्तिकाम् । ग्रसिताम् । अमुञ्चतम् । ताभिः । ऊँ इति । सु । ऊतिभिः । अश्विना । आ । गतम् ॥yābhiḥ | śacībhiḥ | vṛṣaṇā | parāvṛjam | pra | andham | śroṇam | cakṣase | etave | kṛthaḥ | yābhiḥ | vartikām | grasitām | amuñcatam | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam