Sukta 1.112
याभिः शुचन्तिं धनसां सुषंसदं तप्तं घर्ममोम्यावन्तमत्रये । याभिः पृश्निगुं पुरुकुत्समावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
याभि॑: शुच॒न्तिं ध॑न॒सां सु॑षं॒सदं॑ त॒प्तं घ॒र्ममो॒म्याव॑न्त॒मत्र॑ये । याभि॒: पृश्नि॑गुं पुरु॒कुत्स॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
yā́bhiḥ śucántiṃ dhanasā́ṃ su-saṃsádaṃ taptáṃ gharmám omyā́vantam átraye | yā́bhiḥ pṛ́ṣniguṃ puru-kútsam ā́vatam tā́bhir ū́ ṣú ūtíbhir aśvínā ā́ gatam ||
With the aids by which you gave to Atri the shining, well-seated wealth, the heated glow, rich in abundance; with the aids by which you protected Pṛṣṇigu and Purukutsa—by those swift helps, O Aśvins, come here.
याभिः॑ । शु॒च॒न्ति । ध॒न॒साम् । सु॒ऽसं॒सद॑म् । त॒प्तम् । घ॒र्मम् । ओ॒म्याऽव॑न्तम् । अत्र॑ये । याभिः॑ । पृष्नि॑ऽगुम् । पु॒रु॒ऽकुत्स॑म् । आव॑तम् । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥याभिः । शुचन्ति । धनसाम् । सुसंसदम् । तप्तम् । घर्मम् । ओम्यावन्तम् । अत्रये । याभिः । पृष्निगुम् । पुरुकुत्सम् । आवतम् । ताभिः । ऊँ इति । सु । ऊतिभिः । अश्विना । आ । गतम् ॥yābhiḥ | śucanti | dhanasām | su-saṃsadam | taptam | gharmam | omyāvantam | atraye | yābhiḥ | pṛṣni-gum | puru-kutsam | āvatam | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam