Sukta 1.112
याभिरन्तकं जसमानमारणे भुज्युं याभिरव्यथिभिर्जिजिन्वथुः । याभिः कर्कन्धुं वय्यं च जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतम् ॥
याभि॒रन्त॑कं॒ जस॑मान॒मार॑णे भु॒ज्युं याभि॑रव्य॒थिभि॑र्जिजि॒न्वथु॑: । याभि॑: क॒र्कन्धुं॑ व॒य्यं॑ च॒ जिन्व॑थ॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
yā́bhir ántakaṃ jásamānam ā́raṇe bhujyúṃ yā́bhir avyáthibhir jijinváthúḥ | yā́bhiḥ karkándhuṃ váyyaṃ ca jínvathas tā́bhir ū́ ṣú ūtíbhir aśvínā ā́ gatam ||
With the aids by which you revived Bhujyu, sinking toward death in the trackless place, with your untroubling helps; with the aids by which you invigorate Karkandhu and Vayya too—by those swift helps, O Aśvins, come here.
याभिः॑ । अन्त॑कम् । जस॑मानम् । आ॒ऽअर॑णे । भु॒ज्युम् । याभिः॑ । अ॒व्य॒थिऽभिः॑ । जि॒जि॒न्वथुः॑ । याभिः॑ । क॒र्कन्धु॑म् । व॒य्य॑म् । च॒ । जिन्व॑थः । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥याभिः । अन्तकम् । जसमानम् । आअरणे । भुज्युम् । याभिः । अव्यथिभिः । जिजिन्वथुः । याभिः । कर्कन्धुम् । वय्यम् । च । जिन्वथः । ताभिः । ऊँ इति । सु । ऊतिभिः । अश्विना । आ । गतम् ॥yābhiḥ | antakam | jasamānam | āaraṇe | bhujyum | yābhiḥ | avyathi-bhiḥ | jijinvathuḥ | yābh iḥ | karkandhum | vayyam | ca | jinvathaḥ | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam