Sukta 1.112
याभी रेभं निवृतं सितमद्भ्य उद्वन्दनमैरयतं स्वर्दृशे । याभिः कण्वं प्र सिषासन्तमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
याभी॑ रे॒भं निवृ॑तं सि॒तम॒द्भ्य उद्वन्द॑न॒मैर॑यतं॒ स्व॑र्दृ॒शे । याभि॒: कण्वं॒ प्र सिषा॑सन्त॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
yā́bhī rebháṃ nívṛtaṃ sitám adbhyá úd vándanam áirayatam svàr-dṛ́śe | yā́bhiḥ káṇvaṃ prá siṣāsantám ā́vatam tā́bhir ū́ ṣú ūtíbhir aśvínā ā́ gatam ||
With the aids by which you raised Rebha, sunk down and imprisoned in the waters, and lifted up Vandana to see the Sun-world; with the aids by which you protected Kaṇva as he strove forward—by those swift helps, O Aśvins, come here.
याभिः॑ । रे॒भम् । निऽवृ॑तम् । सि॒तम् । अ॒त्ऽभ्यः । उत् । वन्द॑नम् । ऐर॑यतम् । स्वः॑ । दृ॒शे । याभिः॑ । कण्व॑म् । प्र । सिसा॑सन्तम् । आव॑तम् । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥याभिः । रेभम् । निवृतम् । सितम् । अत्भ्यः । उत् । वन्दनम् । ऐरयतम् । स्वः । दृशे । याभिः । कण्वम् । प्र । सिसासन्तम् । आवतम् । ताभिः । ऊँ इति । सु । ऊतिभिः । अश्विना । आ । गतम् ॥yābhiḥ | rebham | ni-vṛtam | sitam | at-bhyaḥ | ut | vandanam | airayatam | svaḥ | dṛśe | yābhiḥ | kaṇvam | pra | sisāsantam | āvatam | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam