Sukta 1.112
याभिः परिज्मा तनयस्य मज्मना द्विमाता तूर्षु तरणिर्विभूषति । याभिस्त्रिमन्तुरभवद्विचक्षणस्ताभिरू षु ऊतिभिरश्विना गतम् ॥
याभि॒: परि॑ज्मा॒ तन॑यस्य म॒ज्मना॑ द्विमा॒ता तू॒र्षु त॒रणि॑र्वि॒भूष॑ति । याभि॑स्त्रि॒मन्तु॒रभ॑वद्विचक्ष॒णस्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
yā́bhiḥ párijmā tánayasya májmanā dviimātā́ tūrṣú táraṇir vi-bhū́ṣati | yā́bhis tri-mántur ábhavad vi-cakṣaṇas tā́bhir ū́ ṣú ūtíbhir aśvínā ā́ gatam ||
With the aids by which Parijmā, by the greatness of his offspring, the two-mothered, shines forth as a swift deliverer among the impetuous; with the aids by which Tri-mantu became clear-seeing—by those swift helps, O Aśvins, come here.
याभिः॑ । परि॑ऽज्मा । तन॑यस्य । म॒ज्मना॑ । द्वि॒इमा॒ता । तू॒र्षु । त॒रणिः॑ । वि॒ऽभूष॑ति । याभिः॑ । त्रि॒ऽमन्तुः॑ । अभ॑वत् । वि॒ऽच॒क्ष॒णः । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥याभिः । परिज्मा । तनयस्य । मज्मना । द्विइमाता । तूर्षु । तरणिः । विभूषति । याभिः । त्रिमन्तुः । अभवत् । विचक्षणः । ताभिः । ऊँ इति । सु । ऊतिभिः । अश्विना । आ । गतम् ॥yābhiḥ | pari-jmā | tanayasya | majmanā | dviimātā | tūrṣu | taraṇiḥ | vi-bhūṣati | yābhiḥ | tri-mantuḥ | abhavat | vi-cakṣaṇaḥ | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam