Sukta 1.112
युवं तासां दिव्यस्य प्रशासने विशां क्षयथो अमृतस्य मज्मना । याभिर्धेनुमस्वं पिन्वथो नरा ताभिरू षु ऊतिभिरश्विना गतम् ॥
यु॒वं तासां॑ दि॒व्यस्य॑ प्र॒शास॑ने वि॒शां क्ष॑यथो अ॒मृत॑स्य म॒ज्मना॑ । याभि॑र्धे॒नुम॒स्वं१॒॑ पिन्व॑थो नरा॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
yuváṃ tāsā́ṃ divyásya pra-śā́sane viśā́ṃ kṣayatho amṛ́tasya májmanā | yā́bhir dhénum asvám pinvatho narā tā́bhir ū́ ṣú ūtíbhir aśvínā ā́ gatam ||
You two dwell among the peoples by the divine governance, by the greatness of the immortal. With the helps by which you make the cow of light and the steed of force swell with abundance, O heroes, with those swift aids, O Aśvins, come here.
यु॒वम् । तासा॑म् । दि॒व्यस्य॑ । प्र॒ऽशास॑ने । वि॒शाम् । क्ष॒य॒थः॒ । अ॒मृत॑स्य । म॒ज्मना॑ । याभिः॑ । धे॒नुम् । अ॒स्व॑म् । पिन्व॑थः । न॒रा॒ । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥युवम् । तासाम् । दिव्यस्य । प्रशासने । विशाम् । क्षयथः । अमृतस्य । मज्मना । याभिः । धेनुम् । अस्वम् । पिन्वथः । नरा । ताभिः । ऊँ इति । सु । ऊतिभिः । अश्विना । आ । गतम् ॥yuvam | tāsām | divyasya | pra-śāsane | viśām | kṣayathaḥ | amṛtasya | majmanā | yābh iḥ | dhenum | asvam | pinvathaḥ | narā | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam