Sukta 1.112
युवोर्दानाय सुभरा असश्चतो रथमा तस्थुर्वचसं न मन्तवे । याभिर्धियोऽवथः कर्मन्निष्टये ताभिरू षु ऊतिभिरश्विना गतम् ॥
यु॒वोर्दा॒नाय॑ सु॒भरा॑ अस॒श्चतो॒ रथ॒मा त॑स्थुर्वच॒सं न मन्त॑वे । याभि॒र्धियोऽव॑थ॒: कर्म॑न्नि॒ष्टये॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
yuvór dā́nāya su-bhárā asaścáto rátham ā́ tasthur vacasáṃ ná mántave | yā́bhir dhíyo ávathaḥ kármann iṣṭáye tā́bhir ū́ ṣú ūtíbhir aśvínā ā́ gatam ||
For your giving, bearing rich gifts, the chariot has taken its stand—so that the word may become understanding. With the helps by which you protect the inspired thoughts in the work toward the desired goal, with those swift aids, O Aśvins, come here.
यु॒वोः । दा॒नाय॑ । सु॒ऽभराः॑ । अ॒स॒श्चतः॑ । रथ॑म् । आ । त॒स्थुः॒ । व॒च॒सम् । न । मन्त॑वे । याभिः॑ । धियः॑ । अव॑थः । कर्म॑न् । इ॒ष्टये॑ । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥युवोः । दानाय । सुभराः । असश्चतः । रथम् । आ । तस्थुः । वचसम् । न । मन्तवे । याभिः । धियः । अवथः । कर्मन् । इष्टये । ताभिः । ऊँ इति । सु । ऊतिभिः । अश्विना । आ । गतम् ॥yuvoḥ | dānāya | su-bharāḥ | asaścataḥ | ratham | ā | tasthuḥ | vacasam | na | mantave | yābhiḥ | dhiyaḥ | avathaḥ | karman | iṣṭaye | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam