Sukta 1.112
अप्नस्वतीमश्विना वाचमस्मे कृतं नो दस्रा वृषणा मनीषाम् । अद्यूत्येऽवसे नि ह्वये वां वृधे च नो भवतं वाजसातौ ॥
अप्न॑स्वतीमश्विना॒ वाच॑म॒स्मे कृ॒तं नो॑ दस्रा वृषणा मनी॒षाम् । अ॒द्यू॒त्येऽव॑से॒ नि ह्व॑ये वां वृ॒धे च॑ नो भवतं॒ वाज॑सातौ ॥
ápnasvatīm aśvinā́ vā́cam asmḗ kṛtáṃ no dasrā vṛṣaṇā manīṣā́m | adyū́tye ávase ní hvaye vāṃ vṛ́dhe ca no bhavataṃ vā́ja-sātau ||
Make for us, O Aśvins, a speech rich in attainment, and fashion for us, O Wonder-Workers, a strong and fruitful thought. For the help that shines out today I call you down; become for us an increasing power in the winning of plenitude.
अप्न॑स्वतीम् । अ॒श्वि॒ना॒ । वाच॑म् । अ॒स्मे इति॑ । कृ॒तम् । नः॒ । द॒स्रा॒ । वृ॒ष॒णा॒ । म॒नी॒षाम् । अ॒द्यू॒त्ये॑ । अव॑से । नि । ह्व॒ये॒ । वा॒म् । वृ॒धे । च॒ । नः॒ । भ॒व॒त॒म् । वाज॑ऽसातौ ॥अप्नस्वतीम् । अश्विना । वाचम् । अस्मे इति । कृतम् । नः । दस्रा । वृषणा । मनीषाम् । अद्यूत्ये । अवसे । नि । ह्वये । वाम् । वृधे । च । नः । भवतम् । वाजसातौ ॥apnasvatīm | aśvinā | vācam | asme iti | kṛtam | naḥ | dasrā | vṛṣaṇā | manīṣām | adyūtye | avase | ni | hvaye | vām | vṛdhe | ca | naḥ | bhavatam | vāja-sātau