Sukta 1.112
द्युभिरक्तुभिः परि पातमस्मानरिष्टेभिरश्विना सौभगेभिः । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥
द्युभिऑर॒क्तुभिऒ: परि॑ पातम॒स्मानरि॑ष्टेभिरश्विना॒ सौभ॑गेभिः । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥
dyúbhir aktúbhiḥ pári pātam asmā́n áriṣṭebhir aśvinā́ saúbhagebhiḥ | tán no mitró váruṇo mamahantām áditiḥ síndhuḥ pṛthivī́ utá dyáuḥ ||
By days and by nights encompass and guard us, O Aśvins, with your unbroken felicities. And may Mitra and Varuṇa magnify that for us—Aditi, the River of the flow, Earth and Heaven as well.
द्युऽभिः॑ । अ॒क्तुऽभिः॑ । परि॑ । पा॒त॒म् । अ॒स्मान् । अरि॑ष्टेभिः । अ॒श्वि॒ना॒ । सौभ॑गेभिः । तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥द्युभिः । अक्तुभिः । परि । पातम् । अस्मान् । अरिष्टेभिः । अश्विना । सौभगेभिः । तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥dyu-bhiḥ | aktu-bhiḥ | pari | pātam | asmān | ariṣṭebhiḥ | aśvinā | saubhagebhiḥ | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ