Sukta 1.112
याभिः कृशानुमसने दुवस्यथो जवे याभिर्यूनो अर्वन्तमावतम् । मधु प्रियं भरथो यत्सरड्भ्यस्ताभिरू षु ऊतिभिरश्विना गतम् ॥
याभिऒ: कृ॒शानु॒मस॑ने दुव॒स्यथो॑ ज॒वे याभिऒर्यूनो॒ अर्व॑न्त॒माव॑तम् । मधु॑ प्रि॒यं भ॑रथो॒ यत्स॒रड्भ्य॒स्ताभिऑरू॒ षु ऊ॒तिभिऑरश्विऒना ग॑तम् ॥
yā́bhiḥ kṛśā́num ásane duvasyátho javé yā́bhir yū́no árvantam ā́vatam | mádhu priyáṃ bharatho yát saraṭ́-bhyas tā́bhir ū ṣú ūtíbhir aśvinā́ ā́ gatam ||
With those powers by which you serve Kṛśānu in the contest, and with those by which you aided the young one’s steed in its swiftness; you bring the dear honey for the pressing strivers—by those swift helps, O Aśvins, come to us.
याभिः॑ । कृ॒शानु॑म् । अस॑ने । दु॒व॒स्यथः॑ । ज॒वे । याभिः॑ । यूनः॑ । अर्व॑न्तम् । आव॑तम् । मधु॑ । प्रि॒यम् । भ॒र॒थः॒ । यत् । स॒रट्ऽभ्यः॑ । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥याभिः । कृशानुम् । असने । दुवस्यथः । जवे । याभिः । यूनः । अर्वन्तम् । आवतम् । मधु । प्रियम् । भरथः । यत् । सरट्भ्यः । ताभिः । ऊँ इति । सु । ऊतिभिः । अश्विना । आ । गतम् ॥yābhiḥ | kṛśānum | asane | duvasyathaḥ | jave | yābhiḥ | yūnaḥ | arvantam | āvatam | madhu | priyam | bharathaḥ | yat | saraṭ-bhyaḥ | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam