Sukta 1.112
ईळे द्यावापृथिवी पूर्वचित्तयेऽग्निं घर्मं सुरुचं यामन्निष्टये । याभिर्भरे कारमंशाय जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतम् ॥
ईळे॒ द्यावा॑पृथि॒वी पू॒र्वचि॑त्तये॒ऽग्निं घ॒र्मं सु॒रुचं॒ याम॑न्नि॒ष्टये॑ । याभि॒र्भरे॑ का॒रमंशा॑य॒ जिन्व॑थ॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
īḷé dyā́vāpṛthivī pū́rva-cittaye ’gníṃ gharmáṃ su-rúcaṃ yā́mann iṣṭáye | yā́bhir bháre kārám aṃśā́ya jínvathas tā́bhir ū́ ṣú ūtíbhir aśvínā ā́ gatam ||
I adore Heaven-and-Earth for the awakening of the ancient consciousness; I adore Agni, the glowing heat, the beautiful light, in the journey toward the desired fulfilment. With the helps by which you foster the singer’s work for his share of the delight, with those swift aids, O Aśvins, come here.
ईळे॑ । द्यावा॑पृथि॒वी इति॑ । पू॒र्वऽचि॑त्तये । अ॒ग्निम् । घ॒र्मम् । सु॒ऽरुच॑म् । याम॑न् । इ॒ष्टये॑ । याभिः॑ । भरे॑ । का॒रम् । अंशा॑य । जिन्व॑थः । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥ईळे । द्यावापृथिवी इति । पूर्वचित्तये । अग्निम् । घर्मम् । सुरुचम् । यामन् । इष्टये । याभिः । भरे । कारम् । अंशाय । जिन्वथः । ताभिः । ऊँ इति । सु । ऊतिभिः । अश्विना । आ । गतम् ॥īḷe | dyāvāpṛthivī iti | pūrva-cittaye | agnim | gharmam | su-rucam | yāman | iṣṭaye | yābhiḥ | bhare | kāram | aṃśāya | jinvathaḥ | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam