Sukta 1.112
याभिः पत्नीर्विमदाय न्यूहथुरा घ वा याभिररुणीरशिक्षतम् । याभिः सुदास ऊहथुः सुदेव्यं ताभिरू षु ऊतिभिरश्विना गतम् ॥
याभिऒ: पत्नी॑र्विम॒दाय॑ न्यू॒हथु॒रा घ॑ वा॒ याभिऒररु॒णीरशिऑक्षतम् । याभिऑ: सु॒दास॑ ऊ॒हथु॑: सुदे॒व्यं१॒॑ ताभिऑरू॒ षु ऊ॒तिभिऑरश्विऒना ग॑तम् ॥
yā́bhiḥ pátnīr vi-madā́ya ni-ū́hathur ā́ gha vā́ yā́bhir aruṇī́r aśíkṣatam | yā́bhiḥ su-dā́sa ū́hathuḥ su-devyáṃ tā́bhir ū ṣú ūtíbhir aśvinā́ ā́ gatam ||
With those powers by which you brought the wives to Vimad, and with those by which you trained the ruddy ones to right action; with those by which you conveyed to Sudās the good divinity—by those swift helps, O Aśvins, come to us.
याभिः॑ । पत्नीः॑ । वि॒ऽम॒दाय॑ । नि॒ऽऊ॒हथुः॑ । आ । घ॒ । वा॒ । याभिः॑ । अ॒रु॒णीः । अशि॑क्षतम् । याभिः॑ । सु॒ऽदासे॑ । ऊ॒हथुः॑ । सु॒ऽदे॒व्य॑म् । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥याभिः । पत्नीः । विमदाय । निऊहथुः । आ । घ । वा । याभिः । अरुणीः । अशिक्षतम् । याभिः । सुदासे । ऊहथुः । सुदेव्यम् । ताभिः । ऊँ इति । सु । ऊतिभिः । अश्विना । आ । गतम् ॥yābhiḥ | patnīḥ | vi-madāya | ni-ūhathuḥ | ā | gha | vā | yābhiḥ | aruṇīḥ | aśikṣatam | yābhiḥ | su-dāse | ūhathuḥ | su-devyam | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam