Sukta 1.112
याभिरङ्गिरो मनसा निरण्यथोऽग्रं गच्छथो विवरे गोअर्णसः । याभिर्मनुं शूरमिषा समावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
याभि॑रङ्गिरो॒ मन॑सा निर॒ण्यथोऽग्रं॒ गच्छ॑थो विव॒रे गोअ॑र्णसः । याभिऒर्मनुं॒ शूर॑मिऒषा स॒माव॑तं॒ ताभिऒरू॒ षु ऊ॒तिभिऒरश्विऒना ग॑तम् ॥
yā́bhir aṅgiro manásā ni-raṇyathó ’gráṃ gácchatho vi-varé gó-arṇasaḥ | yā́bhir mánuṃ śū́ram iṣā́ sam-ā́vataṃ tā́bhir ū ṣú ūtíbhir aśvinā́ ā́ gatam ||
With those powers by which, O Aṅgiras, you bore through by the mind and reached the first opening of the cavern of luminous rays; with those by which you upheld Manu the hero with the force of the impulsion—by those swift helps, O Aśvins, come to us.
याभिः॑ । अ॒ङ्गि॒रः॒ । मन॑सा । नि॒ऽर॒ण्यथः॑ । अग्र॑म् । गच्छ॑थः । वि॒ऽव॒रे । गोऽअ॑र्णसः । याभिः॑ । मनु॒म् । शूरम् । इ॒षा । स॒म्ऽआव॑तम् । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥याभिः । अङ्गिरः । मनसा । निरण्यथः । अग्रम् । गच्छथः । विवरे । गोअर्णसः । याभिः । मनुम् । शूरम् । इषा । सम्आवतम् । ताभिः । ऊँ इति । सु । ऊतिभिः । अश्विना । आ । गतम् ॥yābhiḥ | aṅgiraḥ | manasā | ni-raṇyathaḥ | agram | gacchathaḥ | vi-vare | go--arṇasaḥ | yābhiḥ | manum | śūram | iṣā | sam-āvatam | tābhiḥ | oṃ | iti | su | ūti-bhiḥ | aśvinā | ā | gatam