Sukta 1.112
याभिः पठर्वा जठरस्य मज्मनाग्निर्नादीदेच्चित इद्धो अज्मन्ना । याभिः शर्यातमवथो महाधने ताभिरू षु ऊतिभिरश्विना गतम् ॥
याभि॒: पठ॑र्वा॒ जठ॑रस्य म॒ज्मना॒ग्निर्नादी॑देच्चि॒त इ॒द्धो अज्म॒न्ना । याभि॒: शर्या॑त॒मव॑थो महाध॒ने ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
yā́bhiḥ páṭharvā jaṭhárasya májmanā agnír ná adī́dec citá íddho ájmann ā́ | yā́bhiḥ śáryātam avátho mahā-dháne tā́bhir ū́ ṣú ūtíbhir aśvinā́ ā́ gatam ||
By those powers, through the might within the belly, the kindled fire on the altar blazed as if it would not die out. By those you helped Śaryāta in the great winning of riches. With those aids, O Ashvins, come here to us.
याभिः॑ । पठ॑र्वा । जठ॑रस्य । म॒ज्मना । अ॒ग्निः । न । अदी॑देत् । चि॒तः । इ॒द्धः । अज्म॑न् । आ । याभिः॑ । शर्या॑तम् । अव॑थः । म॒हा॒ऽध॒ने । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥याभिः । पठर्वा । जठरस्य । मज्मना । अग्निः । न । अदीदेत् । चितः । इद्धः । अज्मन् । आ । याभिः । शर्यातम् । अवथः । महाधने । ताभिः । ऊँ इति । सु । ऊतिभिः । अश्विना । आ । गतम् ॥yābhiḥ | paṭharvā | jaṭharasya | majmanā | agniḥ | na | adīdet | citaḥ | iddhaḥ | ajman | ā | yābhiḥ | śaryātam | avathaḥ | mahādhane | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam