Sukta 1.112
याभिर्नरा शयवे याभिरत्रये याभिः पुरा मनवे गातुमीषथुः । याभिः शारीराजतं स्यूमरश्मये ताभिरू षु ऊतिभिरश्विना गतम् ॥
याभि॑र्नरा श॒यवे॒ याभि॒रत्र॑ये॒ याभि॑: पु॒रा मन॑वे गा॒तुमी॒षथु॑: । याभि॒: शारी॒राज॑तं॒ स्यूम॑रश्मये॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
yā́bhir narā́ śayáve yā́bhir átraye yā́bhiḥ purā́ mánave gātúm ī́ṣathuḥ | yā́bhiḥ śārī́r ā́jatam syū́ma-raśmaye tā́bhir ū́ ṣú ūtíbhir aśvinā́ ā́ gatam ||
By those powers, O lords, you helped Śayava; by those you helped Atri; by those long ago you opened a path for Manu. By those you brought Śārī to Syūmarśmi. With those aids, O Ashvins, come here to us.
याभिः॑ । न॒रा॒ । श॒यवे॑ । याभिः॑ । अत्र॑ये । याभिः॑ । पु॒रा । मन॑वे । गा॒तुम् । ई॒षथुः॑ । याभिः॑ । शारीः॑ । आज॑तम् । स्यूम॑ऽरश्मये । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥याभिः । नरा । शयवे । याभिः । अत्रये । याभिः । पुरा । मनवे । गातुम् । ईषथुः । याभिः । शारीः । आजतम् । स्यूमरश्मये । ताभिः । ऊँ इति । सु । ऊतिभिः । अश्विना । आ । गतम् ॥yābhiḥ | narā | śayave | yābhiḥ | atraye | yābhiḥ | purā | manave | gātum | īṣathuḥ | yābhiḥ | śārīḥ | ājatam | syūma-raśmaye | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam