Sukta 1.112
याभिर्महामतिथिग्वं कशोजुवं दिवोदासं शम्बरहत्य आवतम् । याभिः पूर्भिद्ये त्रसदस्युमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
याभि॑र्म॒हाम॑तिथि॒ग्वं क॑शो॒जुवं॒ दिवो॑दासं शम्बर॒हत्य॒ आव॑तम् । याभि॑: पू॒र्भिद्ये॑ त्र॒सद॑स्यु॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
yā́bhir mahā́m atithi-gváṃ kaśó-juvaṃ dívo-dāsaṃ śambara-hátye ā́vatam | yā́bhiḥ pū́r-bhidye trasád-asyum ā́vatam tā́bhir ū́ ṣú ūtíbhir aśvinā́ ā́ gatam ||
By those powers you helped great Atithigva, swift as a whip-lash, and Divodāsa in the slaying of Śambara. By those you helped Trasadasyu in the breaking of the strongholds. With those aids, O Ashvins, come here to us.
याभिः॑ । म॒हाम् । अ॒ति॒थि॒ऽग्वम् । क॒शः॒ऽजुव॑म् । दिवः॑ऽदासम् । श॒म्ब॒र॒ऽहत्ये॑ । आव॑तम् । याभिः॑ । पूः॒ऽभिद्ये॑ । त्र॒सद॑स्युम् । आव॑तम् । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥याभिः । महाम् । अतिथिग्वम् । कशःजुवम् । दिवःदासम् । शम्बरहत्ये । आवतम् । याभिः । पूःभिद्ये । त्रसदस्युम् । आवतम् । ताभिः । ऊँ इति । सु । ऊतिभिः । अश्विना । आ । गतम् ॥yābhiḥ | mahām | atithi-gvam | kaśaḥ-juvam | divaḥ-dāsam | śambara-hatye | āvatam | yābhiḥ | pūḥ-bhidye | trasadasyum | āvatam | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam