Sukta 1.112
याभिः सूर्यं परियाथः परावति मन्धातारं क्षैत्रपत्येष्वावतम् । याभिर्विप्रं प्र भरद्वाजमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
याभि॒: सूर्यं॑ परिया॒थः प॑रा॒वति॑ मन्धा॒तारं॒ क्षैत्र॑पत्ये॒ष्वाव॑तम् । याभि॒र्विप्रं॒ प्र भ॒रद्वा॑ज॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
yā́bhiḥ sū́ryaṃ pari-yā́thaḥ parā́vati mandhātā́raṃ kṣáitra-patyeṣv ā́vatam | yā́bhir vípraṃ prá bharád-vājam ā́vatam tā́bhir ū́ ṣú ūtíbhir aśvinā́ ā́ gatam ||
By those powers you move around the Sun in the far spaces; by those you helped Mandhātṛ in the lordships of the fields. By those you helped the inspired one, Bharadvāja, to bring forward plenitude of force. With those helps, O Ashvins, come here to us.
याभिः॑ । सूर्य॑म् । प॒रि॒ऽया॒थः । प॒रा॒ऽवति॑ । म॒न्धा॒तार॑म् । क्षैत्र॑ऽपत्येषु । आव॑तम् । याभिः॑ । विप्र॑म् । प्र । भ॒रत्ऽवा॑जम् । आव॑तम् । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥याभिः । सूर्यम् । परियाथः । परावति । मन्धातारम् । क्षैत्रपत्येषु । आवतम् । याभिः । विप्रम् । प्र । भरत्वाजम् । आवतम् । ताभिः । ऊँ इति । सु । ऊतिभिः । अश्विना । आ । गतम् ॥yābhiḥ | sūryam | pari-yāthaḥ | parāvati | mandhātāram | kṣaitra-patyeṣu | āvatam | yābhiḥ | vipram | pra | bharat-vājam | āvatam | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam