Sukta 1.112
याभी रसां क्षोदसोद्नः पिपिन्वथुरनश्वं याभी रथमावतं जिषे । याभिस्त्रिशोक उस्रिया उदाजत ताभिरू षु ऊतिभिरश्विना गतम् ॥
याभी॑ र॒सां क्षोद॑सो॒द्नः पि॑पि॒न्वथु॑रन॒श्वं याभी॒ रथ॒माव॑तं जि॒षे । याभि॑स्त्रि॒शोक॑ उ॒स्रिया॑ उ॒दाज॑त॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
yā́bhī rasā́ṃ kṣódasā udnáḥ pipinváthur anaśvám yā́bhī rátham ā́vatam jíṣe | yā́bhis tri-śóka usriyā́ udā́jatá tā́bhir ū́ ṣú ūtíbhir aśvinā́ ā́ gatam ||
By those powers you filled Rasā with the driving surge of the waters; by those you helped the chariotless to win. By those you raised up the radiant dawn-cows for Triśoka. With those bright helps, O Ashvins, come here to us.
याभिः॑ । र॒साम् । क्षोद॑सा । उ॒द्गः । पि॒पि॒न्वथुः॑ । अ॒न॒श्वम् । याभिः॑ । रथ॑म् । आव॑तम् । जि॒षे । याभिः॑ । त्रि॒ऽशोकः॑ । उ॒स्रियाः॑ । उ॒त्ऽआज॑त । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥याभिः । रसाम् । क्षोदसा । उद्गः । पिपिन्वथुः । अनश्वम् । याभिः । रथम् । आवतम् । जिषे । याभिः । त्रिशोकः । उस्रियाः । उत्आजत । ताभिः । ऊँ इति । सु । ऊतिभिः । अश्विना । आ । गतम् ॥yābhiḥ | rasām | kṣodasā | udgaḥ | pipinvathuḥ | anaśvam | yābhiḥ | ratham | āvatam | jiṣe | yābhiḥ | tri-śokaḥ | usriyāḥ | ut-ājata | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam