Sukta 1.112
याभिः सुदानू औशिजाय वणिजे दीर्घश्रवसे मधु कोशो अक्षरत् । कक्षीवन्तं स्तोतारं याभिरावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
याभि॑: सुदानू औशि॒जाय॑ व॒णिजे॑ दी॒र्घश्र॑वसे॒ मध॒व कोशो॒ अक्ष॑रत् । क॒क्षीव॑न्तं स्तो॒तारं॒ याभि॒राव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
yā́bhiḥ sudānū auśijā́ya vaṇíje dīrghá-śravase mádhava kóśo ákṣarat | kakṣī́vantaṃ stotā́raṃ yā́bhir ā́vatam tā́bhir ū́ ṣú ūtíbhir aśvinā́ ā́ gatam ||
O bountiful Ashvins, by those powers a jar of honeyed delight flowed out for the merchant Auśija of far-hearing fame. By those you protected Kakṣīvān, the singer. With those fine helps, come here to us.
याभिः॑ । सु॒दा॒नू॒ इति॑ सुऽदानू । औ॒शि॒जाय॑ । व॒णिजे॑ । दी॒र्घऽश्र॑वसे । मधु॑ । कोशः॑ । अक्ष॑रत् । क॒क्षीऽव॑न्तम् । स्तो॒तार॑म् । याभिः॑ । आव॑तम् । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥याभिः । सुदानू इति सुदानू । औशिजाय । वणिजे । दीर्घश्रवसे । मधु । कोशः । अक्षरत् । कक्षीवन्तम् । स्तोतारम् । याभिः । आवतम् । ताभिः । ऊँ इति । सु । ऊतिभिः । अश्विना । आ । गतम् ॥yābhiḥ | sudānūitisu-dānū | auśijāya | vaṇije | dīrgha-śravase | madhu | kośaḥ | akṣarat | kakṣī-vantam | stotāram | yābhiḥ | āvatam | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam