Sukta 1.110
निश्चर्मण ऋभवो गामपिंशत सं वत्सेनासृजता मातरं पुनः । सौधन्वनासः स्वपस्यया नरो जिव्री युवाना पितराकृणोतन ॥
निश्चर्म॑ण ऋभवो॒ गाम॑पिंशत॒ सं व॒त्सेना॑सृजता मा॒तरं॒ पुन॑: । सौध॑न्वनासः स्वप॒स्यया॑ नरो॒ जिव्री॒ युवा॑ना पि॒तरा॑कृणोतन ॥
níś carmaṇá ṛbhavo gā́m apiṃśata sáṃ vatsénāsṛjatā mātáraṃ púnaḥ | sáudhanvanāsaḥ svapasyáyā naro jivrī́ yúvānā pitarā́kṛṇotana ||
Out of the hide the Ribhus fashioned the Cow; joined again with her calf they restored the Mother once more. O Saudhanvanas, by your perfect workmanship, you made the two parents young again—Jivrī and the other.
निः । चर्म॑णः । ऋ॒भ॒वः॒ । गाम् । अ॒पिं॒श॒त॒ । सम् । व॒त्सेन॑ । अ॒सृ॒ज॒त॒ । मा॒तर॑म् । पुन॒रिति॑ । सौध॑न्वनासः । सु॒ऽअ॒प॒स्यया॑ । नरः॑ । जिव्री॒ इति॑ । युवा॑ना । पि॒तरा॑ । अ॒कृ॒णो॒त॒न॒ ॥निः । चर्मणः । ऋभवः । गाम् । अपिंशत । सम् । वत्सेन । असृजत । मातरम् । पुनरिति । सौधन्वनासः । सुअपस्यया । नरः । जिव्री इति । युवाना । पितरा । अकृणोतन ॥niḥ | carmaṇaḥ | ṛbhavaḥ | gām | apiṃśata | sam | vatsena | asṛjata | mātaram | punar iti | saudhanvanāsaḥ | su-apasyayā | naraḥ | jivrī | iti | yuvānā | pitarā | akṛṇotana