Sukta 1.110
ऋभुर्न इन्द्रः शवसा नवीयानृभुर्वाजेभिर्वसुभिर्वसुर्ददिः । युष्माकं देवा अवसाहनि प्रियेऽभि तिष्ठेम पृत्सुतीरसुन्वताम् ॥
ऋ॒भुर्न॒ इन्द्र॒: शव॑सा॒ नवी॑यानृ॒भुर्वाजे॑भि॒र्वसु॑भि॒र्वसु॑र्द॒दिः । यु॒ष्माकं॑ देवा॒ अव॒साह॑नि प्रि॒ये॒३॒॑ऽभि ति॑ष्ठेम पृत्सु॒तीरसु॑न्वताम् ॥
ṛbhúr na índraḥ śávasā navī́yān ṛbhúr vājébhir vásubhir vásur dadíḥ | yuṣmā́kaṃ devā́ ávasā́hani priyé ’bhí tiṣṭhema pṛtsutī́r ásunvatām ||
May Ṛbhu be for us an Indra, newer in force; may Ṛbhu, by plenitudes and riches, give us the true treasure. O gods, by your help on the dear day of battle, may we stand over the hostile thrusts of those who do not press the Soma.
ऋ॒भुः । नः॒ । इन्द्रः॑ । शव॑सा॑ । नवी॑यान् । ऋ॒भुः । वाजे॑भिः । वसु॑ऽभिः । वसुः॑ । द॒दिः । यु॒ष्माक॑म् । देवाः॑ । अव॑सा । अह॑नि । प्रि॒ये । अ॒भि । ति॒ष्ठे॒म॒ । पृ॒त्सु॒तीः । असु॑न्वताम् ॥ऋभुः । नः । इन्द्रः । शवसा । नवीयान् । ऋभुः । वाजेभिः । वसुभिः । वसुः । ददिः । युष्माकम् । देवाः । अवसा । अहनि । प्रिये । अभि । तिष्ठेम । पृत्सुतीः । असुन्वताम् ॥ṛbhuḥ | naḥ | indraḥ | śavasā | navīyān | ṛbhuḥ | vājebhiḥ | vasu-bhiḥ | vasuḥ | dadiḥ | yuṣmākam | devāḥ | avasā | ahani | priye | abhi | tiṣṭhema | pṛtsutīḥ | asunvatām