Sukta 1.110
वाजेभिर्नो वाजसातावविड्ढ्यृभुमाँ इन्द्र चित्रमा दर्षि राधः । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥
वाजे॑भिर्नो॒ वाज॑सातावविड्ढ्यृभु॒माँ इ॑न्द्र चि॒त्रमा द॑र्षि॒ राध॑: । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥
vājébhir no vā́ja-sātāv aviḍḍhy ṛbhúmāṃ índra citrám ā́ darṣi rā́dhaḥ | tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pṛthivī́ utá dyáuḥ ||
With the powers of plenitude, in the winning of plenitude, help us; O Indra rich in Ribhu-force, show to us the radiant gift. May Mitra and Varuna magnify that for us—Aditi, the River of being, Earth and Heaven as well.
वाजे॑भिः । नः॒ । वाज॑ऽसातौ । अ॒वि॒ड्ढि॒ । ऋ॒भु॒मान् । इ॒न्द्र॒ । चि॒त्रम् । आ । द॒र्षि॒ । राधः॑ । तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥वाजेभिः । नः । वाजसातौ । अविड्ढि । ऋभुमान् । इन्द्र । चित्रम् । आ । दर्षि । राधः । तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥vājebhiḥ | naḥ | vāja-sātau | aviḍḍhi | ṛbhumān | indra | citram | ā | darṣi | rādhaḥ | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ