Sukta 1.110
आ मनीषामन्तरिक्षस्य नृभ्यः स्रुचेव घृतं जुहवाम विद्मना । तरणित्वा ये पितुरस्य सश्चिर ऋभवो वाजमरुहन्दिवो रजः ॥
आ म॑नी॒षाम॒न्तरि॑क्षस्य॒ नृभ्य॑: स्रु॒चेव॑ घृ॒तं जु॑हवाम वि॒द्मना॑ । त॒र॒णि॒त्वा ये पि॒तुर॑स्य सश्चि॒र ऋ॒भवो॒ वाज॑मरुहन्दि॒वो रज॑: ॥
ā́ manīṣā́m antárikṣasya nṛ́bhyaḥ srucéva ghṛtáṃ juhavāma vidmánā | taraṇitvā́ yé pitúr asya saścirá ṛ́bhavo vā́jam aruhan divó rájaḥ ||
We offer, by knowledge, the clarified richness like ghee in a ladle, to the human powers of the mid-region—our inspired thought. Those Ribhus who clung to the Father by the power of crossing, mounted the Vāja and rose into the luminous realm of heaven.
आ । मा॒नी॒षाम् । अ॒न्तरि॑क्षस्य । नृऽभ्यः॑ । स्रु॒चाऽइ॑व । घृ॒तम् । जु॒ह॒वा॒म॒ । वि॒द्मना॑ । त॒र॒णि॒ऽत्वा । ये । पि॒तुः । अ॒स्य॒ । स॒श्चि॒रे । ऋ॒भवः॑ । वाज॑म् । अ॒रु॒ह॒न् । दि॒वः । रजः॑ ॥आ । मानीषाम् । अन्तरिक्षस्य । नृभ्यः । स्रुचाइव । घृतम् । जुहवाम । विद्मना । तरणित्वा । ये । पितुः । अस्य । सश्चिरे । ऋभवः । वाजम् । अरुहन् । दिवः । रजः ॥ā | mānīṣām | antarikṣasya | nṛ-bhyaḥ | srucāiva | ghṛtam | juhavāma | vidmanā | taraṇi-tvā | ye | pituḥ | asya | saścire | ṛbhavaḥ | vājam | aruhan | divaḥ | rajaḥ