Sukta 1.110
क्षेत्रमिव वि ममुस्तेजनेनँ एकं पात्रमृभवो जेहमानम् । उपस्तुता उपमं नाधमाना अमर्त्येषु श्रव इच्छमानाः ॥
क्षेत्र॑मिव॒ वि म॑मु॒स्तेज॑नेनँ॒ एकं॒ पात्र॑मृ॒भवो॒ जेह॑मानम् । उप॑स्तुता उप॒मं नाध॑माना॒ अम॑र्त्येषु॒ श्रव॑ इ॒च्छमा॑नाः ॥
kṣétram iva ví mamús téjanenam ékaṃ pā́tram ṛ́bhavo jéhamānam | úpa-stutā upa-máṃ nā́dhamānā amártyeṣu śráva icchámānāḥ ||
As one measures out a field, so they measured out with the measuring-cord that one trembling vessel. Praised, striving toward the supreme likeness, they desired the imperishable glory among the immortals.
क्षेत्र॑म्ऽइव । वि । म॒मुः॒ । तेज॑नेनम् । एक॑म् । पात्र॑म् । ऋ॒भवः॑ । जेह॑मानम् । उप॑ऽस्तुताः । उ॒प॒ऽमम् । नाध॑मानाः । अम॑र्त्येषु । श्रवः॑ । इ॒च्छमा॑नाः ॥क्षेत्रम्इव । वि । ममुः । तेजनेनम् । एकम् । पात्रम् । ऋभवः । जेहमानम् । उपस्तुताः । उपमम् । नाधमानाः । अमर्त्येषु । श्रवः । इच्छमानाः ॥kṣetram-iva | vi | mamuḥ | tejanenam | ekam | pātram | ṛbhavaḥ | jehamānam | upa-stutāḥ | upa-mam | nādhamānāḥ | amartyeṣu | śravaḥ | icchamānāḥ